Wednesday 30 April 2014

दारिद्र्यदुह्ख दहनाय नमः शिवाय

दारिद्र्यदहन शिवस्तोत्रम

विश्वेश्वराय नरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकांतिधवलाय जटाधराय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ १ ॥

गौरिप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ २ ॥

भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ३ ॥

चर्माम्बराय शवभस्मविलेपनाय भालेशणाय मणिकुण्डलमण्डिताय ।
मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ४ ॥

पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोमयाय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ५ ॥

भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलशणलशिताय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ६ ॥

रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ७ ॥

मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय दारिद्र्यदुह्ख दहनाय नमः शिवाय ॥ ८ ॥

वसिष्टेन कृतं स्तोत्रम सर्वरोगनिवारणम.ह ।
सर्वसंपत्करं शीघ्रं पुत्रपौत्राभिवर्धनम.ह ॥
त्रिसन्ध्यं यः पटेन्नित्यं स हि स्वर्गमवाप्नुयात.ह ।

। इति वसिष्टविरचितं दारिद्र्यदहनशिवस्तोत्रं संपूर्णम.

1 comment: