Tuesday 27 May 2014

सन्ध्या दीप दर्शन

सन्ध्या दीप दर्शन श्लोकं
दीपं ज्योति परब्रह्म दीपं सर्वतमोपहम् ।
दीपेन साध्यते सर्वं सन्ध्या दीपं नमो‌உस्तुते ॥
निद्रा श्लोकं
रामं स्कन्धं हनुमन्तंवैनतेयं वृकोदरम् ।
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ॥
कार्य प्रारम्भ श्लोकं
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः ।
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥
गायत्रि मन्त्रं
ॐ भूर्भुव॒स्सुवः॒ । तथ्स॑वि॒तुर्वरे॓ण्यं॒ ।
भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचोदया॓त् ॥
हनुम स्तोत्रं
मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् ।
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ॥
बुद्धिर्बलं यशोधैर्यं निर्भयत्व-मरोगता ।
अजाड्यं वाक्पटुत्वं चहनुमत्-स्मरणाद्-भवेत् ॥
श्रीराम स्तोत्रं
श्री राम राम रामेती रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
गणेश स्तोत्रं
शुक्लां बरधरं विष्णुंशशिवर्णम् चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ॥

No comments:

Post a Comment